Sanskrit Text
३.३० त्रिंशोऽध्यायः । रामाय देवीवरदानम् ।
व्यास उवाच ।
एवं तौ संविदं कृत्वा यावत्तूष्णीं बभूवतुः ।
आजगाम तदाऽऽकाशान्नारदो भगवानृषिः ॥ १ ॥
रणयन्महतीं वीणां स्वरग्रामविभूषिताम् ।
गायन्बृहद्रथं साम तदा तमुपतस्थिवान् ॥ २ ॥
English Translation
Vyāsa said :-- O king! Rāma and Lakṣmaṇa, discussing thus, remained silent; when the Ṛṣi Nārada appeared there from the sky above, singing the Rathāntara Sāma Veda hymns in tune and musical gamut with his renowned lute.