Sanskrit Text
पुरा श्रुतं मया स्वामिन्पाण्डवा वै वने स्थिताः ।
मुनीनामाश्रमे पुण्ये पाञ्चाल्या सहितास्तदा ॥ १६ ॥
गतास्ते मृगयां पार्था भ्रातरः पञ्च एव ते ।
द्रौपदी संस्थिता तत्र मुनीनामाश्रमे शुभे ॥ १७ ॥
धौम्योऽत्रिर्गालवः पैलो जावालिर्गौतमो भृगुः ।
च्यवनश्चात्रिगोत्रश्च कण्वश्चैव जतुः क्रतुः ॥ १८ ॥
वीतिहोत्रः सुमन्तुश्च यज्ञदत्तोऽथ वत्सलः ।
राशासनः कहोडश्च यवक्रीर्यज्ञकृत्क्रतुः ॥ १९ ॥
एते चान्ये च मुनयो भारद्वाजादयः शुभाः ।
वेदपाठयुताः सर्वे संस्थिताश्चाश्रमे स्थिताः ॥ २० ॥
दासीभिः सहिता तत्र याज्ञसेनी स्थिता मुने ।
आश्रमे चारुसर्वाङ्गी निर्भया मुनिसंवृते ॥ २१ ॥
English Translation
O Lord! In days of yore, I heard that the Pāndavas, when they went to the forest, lived in the holy hermitage of the Munis with Draupadī. One day the five brethren went a hunting, and the beautiful Draupadī stayed without any fear with other maid servants in the hermitage where there was the chanting of the Vedas by Dhaumya, Attri, Gālava, Paila, Jāvāli, Gautama, Bhṛgu, Cyavana, Kanva of the Atrigotra, Jatu, Kratu, Vītihotra, Sumantu, Yajñadatt, Vatsala, Rāśāsana, Kahoḍa, Yavakrī, Yajñakrit, Kratu and other holy high souled Ṛṣis like Bhāradvāja and others.