Sanskrit Text
३.१३ त्रयोदशोऽध्यायः । विष्णुनानुष्ठानवर्णनम् ।
राजोवाच ।
हरिणा तु कथं यज्ञः कृतः पूर्वं पितामह ।
जगत्कारणरूपेण विष्णुना प्रभविष्णुना ॥ १ ॥
के सहायास्तु तत्रासन्ब्राह्मणाः के महामते ।
ऋत्विजो वेदतत्त्वज्ञास्तन्मे ब्रूहि परन्तप ॥ २ ॥
पश्चात्करोम्यहं यज्ञं विधिदृष्टेन कर्मणा ।
श्रुत्वा विष्णुकृतं यागमम्बिकायाः समाहितः ॥ ३ ॥
English Translation
The King spoke :-- O Grandfather! How did Viṣṇu, the Powerful, the Cause of the world, perform the Devī Yajña? Whose help did he receive and what priests with their knowledge of the Vedas did he engage, kindly tell all these to me in special details. I will very attentively hear first this Devī Yajña, performed by Viṣṇu; and then I will make arrangements to do that myself accordingly.