Sanskrit Text
२.१० दशमोऽध्यायः । परीक्षिन्मरणम् ।
सूत उवाच ।
तस्मिन्नेव दिने नाम्ना तक्षकस्तं नृपोत्तमम् ।
शप्तं ज्ञात्वा गृहात्तूर्णं निःसृतः पुरुषोत्तमः ॥ १ ॥
वृद्धब्राह्मणवेषेण तक्षकः पथि निर्गतः ।
अपश्यत्कश्यपं मार्गे व्रजन्तं नृपतिं प्रति ॥ २ ॥
English Translation
Sūta said :-- “O Ṛṣis! On that very day when the Brāhmin Kaśyapa went out of his house, Takṣak, knowing the king Parīkṣit cursed, assumed an aged Brāhmin’s form and went out of his abode. The serpent Takṣak met the Brāhmin Kaśyapa on the way.