Sanskrit Text
२.३ तृतीयोऽध्यायः । प्रतीयसकाशाच्छन्तनुजन्मवर्णनम् ।
ऋषय ऊचुः ।
उत्पत्तिस्तु त्वया प्रोक्ता व्यासस्यामिततेजसः ।
सत्यवत्यास्तथा सूत विस्तरेण त्वयानघ ॥ १ ॥
तथाप्येकस्तु सन्देहश्चित्तेऽस्माकं तु संस्थितः ।
न निवर्तति धर्मज्ञ कथितेन त्वयानघ ॥ २ ॥
English Translation
The Ṛṣis said :-- “O Sinless Sūta! You have described to us in detail the birth of Vyāsa, of unrivalled fire, and of Satyavatī; but we have one great doubt in our minds though, O Knower of Dharma! which is not being removed by your words.