Sanskrit Text
२.१ प्रथमोऽध्यायः । मस्त्यगन्धोत्पत्तिवर्णनम् ।
ऋषय ऊचुः ।
आश्चर्यकरमेतत्ते वचनं गर्भहेतुकम् ।
सन्देहोऽत्र समुत्पन्नः सर्वेषां नस्तपस्विनाम् ॥ १ ॥
माता व्यासस्य मेधाविन्नाम्ना सत्यवतीति च ।
विवाहिता पुरा ज्ञाता राज्ञा शन्तनुना यथा ॥ २ ॥
English Translation
The Ṛṣis said :-- “O Sūta! Your words sound wonderful to us indeed! but you have not as yet definitely spoken to us the original events in detail; so a great doubt has arisen in our minds. We know that the king Śantanu married Vyāsa’s mother, Satyavatī.