Sanskrit Text
१.१० दशमोऽध्यायः । शिववरदानवर्णनम् ।
ऋषय ऊचुः ।
सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा ।
कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ १ ॥
व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः ।
विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया ॥ २ ॥
English Translation
The Ṛṣis said :-- “O Sūta! You told before, that Vyāsa Deva, unrivalled spirit, composed all the Purāṇas and taught them to his own Śuka Deva; but how did Vyāsadeva, who was incessantly engaged in tapasyā, procreate Śuka? Describe to us in detail what you heard direct from Kṛṣṇa Dvaipāyana Vyāsa”.