Sanskrit Text
देवेषु विष्णुः कथितः सर्वगः सर्वपालकः ।
यतो विराडिदं सर्वमुत्पन्नं सचराचरम् ॥ १४ ॥
ते सर्वे समुपासन्ते नत्वा देवं परात्परम् ।
नारायणं हृषीकेशं वासुदेवं जनार्दनम् ॥ १५ ॥
तथा केचिन्महादेवं शङ्करं शशिशेखरम् ।
त्रिनेत्रं पञ्चवक्त्रं च शूलपाणिं वृषध्वजम् ॥ १६ ॥
तथा वेदेषु सर्वेषु गीतं नाम्ना त्रियम्बकम् ।
कपर्दिनं पञ्चवक्त्रं गौरीदेहार्धधारिणम् ॥ १७ ॥
कैलासवासनिरतं सर्वशक्तिसमन्वितम् ।
भूतवृन्दयुतं देवं दक्षयज्ञविघातकम् ॥ १८ ॥
तथा सूर्यं वेदविदः सायम्प्रातर्दिने दिने ।
मध्याह्ने तु महाभागाः स्तुवन्ति विविधैः स्तवैः ॥ १९ ॥
तथा वेदेषु सर्वेषु सूर्योपासनमुत्तमम् ।
परमात्मेति विख्यातं नाम तस्य महात्मनः ॥ २० ॥
English Translation
See, some persons call Bhagavān Viṣṇu omnipresent, the preserver of all and the best of all the Devas; according to them all this universe moving and non-moving, is created by Viṣṇu; they bow down before the Highest Nārāyan Hrisikeśa Janārdana Vāsudeva and worship Him, whereas others worship Mahādeva Śaṅkara, having Gauri for the other half of his body, endowed with all powers, residing in Kailāśa, surrounded by hosts of bhutas, that destroyed the Daksha’s sacrifice, who is mentioned in the Vedas as Śaśiśekhara (having moon on his forehead), with three eyes and five faces and holding trident in his hand and known as Vṛṣadhaja and Kaparddi. O highly intelligent ones! There are some other persons, that know the Vedas and worship the Sun everyday in the morning, mid-day and in the evening with various hymns.